कुल पेज दृश्य

बुधवार, 10 जनवरी 2024

विश्वनाथाष्टक, विघ्नेश्वराष्टोत्तर शतनामस्तोत्र

 ||श्री विघ्नेश्वराष्टोत्तर शतनामस्तोत्रम्||

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः .
स्कंदाग्रजोव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः .. १..
अग्निगर्वच्छिद इन्द्रश्रीप्रदः .
वाणीप्रदोअः अव्ययः सर्वसिद्धिप्रदश्शर्वतनो शर्वरीप्रियः .. २..
सर्वात्मकः सृष्टिकर्ता देवोनेकार्चितश्शिवः .
शुद्धबुद्धि प्रियश्शांतो ब्रह्मचारी गजाननः .. ३..
द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः .
एकदन्तश्छतुर्बाहुश्छतुरश्शक्तिसंयुतः .. ४..
लम्बोदरश्शूर्पकर्णो हरर्ब्रह्म विदुत्तमः .
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः .. ५..
पाशाङ्कुशधरश्चण्डो गुणातीतो निरञ्जनः .
अकल्मषस्स्वयंसिद्धस्सिद्धार्चितः पदाम्बुजः .. ६..
बीजपूरफलासक्तो वरदश्शाश्वतः कृतिः .
द्विजप्रियो वीतभयो गदी चक्रीक्षुचापधृत् .. ७..
श्रीदोज उत्पलकरः श्रीपतिः स्तुतिहर्षितः .
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः .. ८..
चन्द्रचूडामणिः कान्तः पापहारी समाहितः .
अश्रितश्रीकरस्सौम्यो भक्तवांछितदायकः .. ९..
शान्तः कैवल्यसुखदस्सच्चिदानन्द विग्रहः .
ज्ञानी दयायुतो दांतो ब्रह्मद्वेषविवर्जितः ..१०..
प्रमत्तदैत्यभयदः श्रीकंथो विबुधेश्वरः .
रामार्चितोविधिर्नागराजयज्ञोपवीतकः ..११..
स्थूलकंठः स्वयंकर्ता सामघोषप्रियः परः .
स्थूलतुण्डोऽग्रणी धीरो वागीशस्सिद्धिदायकः .. १२..
दूर्वाबिल्वप्रियोऽव्यक्तमूर्तिरद्भुतमूर्तिमान् .
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः .. १३..
स्वलावण्यसुधासारो जितमन्मथविग्रहः .
समस्तजगदाधारो मायी मूषकवाहनः ..१४..
हृष्टस्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः .
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुं .. १५..
तुष्टाव शंकरः पुत्रं त्रिपुरं हंतुमुत्यतः .
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ..१६..
दूर्वादलैर्बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः .
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ..
ॐ विश्वग्दृशे नमः
***
|विश्वनाथाष्टकम्||
गङ्गातरंगरमणीयजटाकलापं
गौरीनिरन्तरविभूषितवामभागम् |
नारायणप्रियमनंगमदापहारं
वाराणसीपुरपतिं भज विश्वनाथम् ||
वाचामगोचरमनेकगुणस्वरूपं
वागीशविष्णुसुरसेवितपादपीठम् |
वामेनविग्रहवरेणकलत्रवन्तं
वाराणसीपुरपतिं भज विश्वनाथम् ||
भूताधिपं भुजगभूषणभूषितांगं
व्याघ्राजिनांबरधरं जटिलं त्रिनेत्रम् |
पाशांकुशाभयवरप्रदशूलपाणिं
वाराणसीपुरपतिं भज विश्वनाथम् |
शीतांशुशोभितकिरीटविराजमानं
भालेक्षणानलविशोषितपंचबाणम् |
नागाधिपारचितभासुरकर्णपूरं
वाराणसीपुरपतिं भज विश्वनाथम् ||
पंचाननं दुरितमत्तमतङ्गजानां
नागान्तकं दनुजपुंगवपन्नगानाम् |
दावानलं मरणशोकजराटवीनां
वाराणसीपुरपतिं भज विश्वनाथम् ||
तेजोमयं सगुणनिर्गुणमद्वितीयं
आनन्दकन्दमपराजितमप्रमेयम् |
नागात्मकं सकलनिष्कलमात्मरूपं
वाराणसीपुरपतिं भज विश्वनाथम् ||
रागादिदोषरहितं स्वजनानुरागं
वैराग्यशान्तिनिलयं गिरिजासहायम् |
माधुर्यधैर्यसुभगं गरलाभिरामं
वाराणसीपुरपतिं भज विश्वनाथम् ||
आशां विहाय परिहृत्य परस्य निन्दां
पापे रतिं च सुनिवार्य मनः समाधौ |
आदाय हृत्कमलमध्यगतं परेशं
वाराणसीपुरपतिं भज विश्वनाथम् ||
वाराणसीपुरपतेः स्तवनं शिवस्य
व्याख्यातमष्टकमिदं पठते मनुष्यः |
विद्यां श्रियं विपुलसौख्यमनन्तकीर्तिं
सम्प्राप्य देहविलये लभते च मोक्षम् ||
विश्वनाथाष्टकमिदं यः पठेच्छिवसन्निधौ |
शिवलोकमवाप्नोति शिवेन सह मोदते ||
|| इति श्रीमहर्षिव्यासप्रणीतं श्रीविश्वनाथाष्टकं संपूर्णम् ||

***

कोई टिप्पणी नहीं: